पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
गोपीगीता-


त्वया धरा उहृता अतस्तवैव भू : तस्मिन्नेवावतारे कृष्णावतारे तु कथमित्याशयः। अस्मिन्पक्षे भूः अभूः न भूः अभूरिति सभङ्गश्लेषः। नञोर्थो निषेधः। यद्वा नूः अभूः इत्यत्र,अभूः पदस्य क्रियापरत्वेऽपि न हानिः। त्वं भूस्वामी अभूरित्यर्थस्यापि प्रतीतेः ॥१४॥ यद्वा हे भूस्त्वमभूः, कृष्णस्य धरा अभूः। भुवि त्वद्विषये ते प्रसिद्धा जनाः ॥ १५ ॥ यद्वा तत्स्वामिनो राजानः इत्थं गृणन्ति जानन्ति, एतत्पक्षे अभूरिति क्रियापदमस्तु ॥ १६ ॥ यद्वा अवरणमिति पृथक् मङ्गलमिति च पृथक्। तव कथा अस्माकं श्रवणम्। श्रुतिरेव एतेन कथायाः श्रवणत्वप्रतिपादकेनाभेदरूपकेणास्माकं श्रुतिरेव कथेति कथाश्रुत्योरभेदः।अङ्गं लाति गृह्णातित्यङ्गलस्तम्। अङ्गवतिप्रयुज्यमानेनाङ्गलशब्देनातीव सुन्दराङ्गत्वम् ॥ १७॥ यद्वा श्रवणपदं सम्बोधनम् । कृष्णस्य स्वश्रवणस्य च रूपकत्वोक्त्या त्वन्नामकथादिश्रवणमेवास्माकं श्रुतिरिति सादरातिशयः। भगवतो मङ्गलस्वरूपत्वञ्च 'मङ्गलम्भगवान् विष्णु रिति पुराणे'। 'अशुभानि निराचष्टे तनोति शुभसन्ततिम् स्मृतिमात्रेण यत्पुंसांब्रह्म तन्मङ्गलम्परमिति श्रुतौ प्रसिद्धमेव।१८॥

प्रहसितं प्रिय प्रेमवीक्षणं।

  विहरणञ्च ते ध्यानमङ्गलम्॥

रहसि सम्विदो या हृदि स्पृशः।

  कुहक नो मनः क्षोभयन्ति हि ॥१०॥

प्रहसितमिति। यदा हसो हासः, प्रकर्षण हसः प्रहसः, स