पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
गोपालसहस्रनामस्तोत्रम्


संभजनीय इति वा । 'मध्ये वामनमासीनं विश्वेदेवा उपासते' इति कठोपनिपदि । बलिवन्धन:--पदत्रययाचनेन बलिं बद्धवान् वशीकृतवान् । गजेन्द्रवरद: गजेन्द्रस्य वरप्रदः ।

 'नाहं कलेबरस्यास्य त्राणार्थ मधुसूदन ।
 करस्थकमलान्येव पादयोरर्पितुं तव ॥'

 इत्युक्तरीत्या नक्राकान्तेन करीन्द्रेण स्वावचितपुष्पाणि भगवत्पादयोर्मरणात् प्राक् समर्पणीयानीति बुद्धया ’आदिमूल' इत्याहूतः भगवान् सद्यः स्वयमागत्य तत्पुष्पस्वीकरणेन तदीयाभीष्टं पूरयामासेति पुराणेषु । स्वामी - सर्वं जगत् स्वं यस्य सः । सर्वदेवनमस्कृतः -- सर्वरितरैर्देवैः प्रणतः ॥ १२६ ॥


 शेषपर्यङ्कशयनः वैनतेयस्थो जयी।
 अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ १२७ ॥

 शेषपर्यङ्कशयनः - आदिशेषाख्यः पर्यङ्कः शयनं यस्य सः । वैनतेयरथ:-विनतासुतो गरुडः वाहनं यस्य सः। जयी- अयशीलः । सर्वभूतान्यतिशयितुं शीलमस्येति वा । अव्याहतबलैश्वर्यसम्पन्नः - परैरप्रतिहताभ्यां बलैश्चर्याभ्यां युक्तः । पूर्णमानस:- सर्वदा पूर्णं अभिलषितपूर्तियुक्तं मनो यस्य सः ॥ १२७ ॥


 योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
 योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ १२८ ॥

 योगेश्वरेश्वर:-कल्याणगुणयोगवताम् ईश्वराणामीश्वरः । साक्षी-- भूतभविप्यद्वर्तमानसकलवस्तुसाक्षाद्द्रष्टा । क्षेत्रज्ञः-क्षेत्राणि ततज्जीवनुगुणानि शरीराणि जानातीति क्षेत्रज्ञः ।  'क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् ।  तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥'  128 a. क. योगीश्वरेश्वरः 11