पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
गोपालसहस्रनामस्तोत्रम्


इति महाभारते (शान्ति ३५१-६)। ज्ञानदायकः - भक्तिमतां स्वविषयकज्ञानप्रदाता। 'शुद्धभावं गतो भक्त्या शास्त्राद्वेग्नि जनार्दनम्’ । इति महाभारते। 'मत्तः: स्मृतिर्ज्ञानमपोहनं च ' (गी. 15-35) इति गीतायाम् । योगिहृत्पङ्कजावासः योगिनां हृदयपङ्कजं वासस्थानमस्य । योगमायासमन्वितः- जीवासाधारणमनुष्यत्वादिसंस्थानयोगरूपया मायया समाविष्टः । अचिन्त्यशक्ति- समन्वितो वा ॥ १२८ ॥


 नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
 सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ १२९ ॥ }}

नादबिन्दुकलातीतः-- नादं बिन्दु कलां चातीत्य स्थितः । नादः बिन्दुः कला च मन्त्रावयवविशेषा इत्याहुः । मन्त्रशास्त्रमन्वेषणीयम् । चतुर्वर्गफलप्रदः -धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयप्रदाता । सुषुम्नामार्गसञ्चारी - सुषुम्नाख्यनाडीमार्गेऽन्तर्यामितया सञ्चरतीति । देहान्तरसंस्थितःशरीरस्यान्तः अन्तर्यामिरूपेण स्थितः ॥ १२९ ॥


 देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः ।
 सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ १३० ॥

 देहेन्द्रियमनःप्राणानां साक्षी-स्वयमुदासीनः सन् तद्व्यापारद्रष्टा । चेतःप्रसादकः -- चित्तशुद्धिपदः । सूक्ष्मः --- सर्वान्तः प्रवेशयोग्यः अतीन्द्रिय इति वा । सर्वगतः .... सर्वव्यापी । 'नित्य विभुं सर्वगतं सुसूक्ष्मम्' (म.उ. 1-1-6)। देही-सकलजगच्छरीरकः । ज्ञानदर्पणगोचरः-- ज्ञानाख्ये दर्पणे द्रष्टव्यः ॥ १३०॥


 तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः।
 ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१ ॥



 129 d ख घ.सन्देहस्यान्तरस्थितः