पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
गोपालसहस्रनामस्तोत्रम्


 भीष्मभक्तिप्रदः -- भीष्माचार्यस्य भक्तिं प्रदत्तवान् । दिव्यः - अप्राकृतलोकस्वामी। कौरवान्वयवाशनः-- कौरववंशस्य घातकः । कौन्तेय प्रियवन्धुः-- पाण्डवानां प्रियो बन्धुः। पार्थस्यन्दनसारथिः -- अर्जुनरथस्य सारथिः । आश्रितपारतन्त्र्यमनेनोच्यते ।। १२४ ।।


 नारसिंहो महावीरः स्तम्भजातो महाबलः ।
 प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ १२५ ॥


 नारसिंहः - कृतनरसिंहावतारः नरावयवानां सिंहावयवानां च समावेशो यत्र वपुषि तादृशवपुष्मानित्यर्थः । महावीर:- महापराक्रमशीलः ! स्तम्भजात:-- स्तम्भेऽवतीर्णः । नारायणः सर्वत्र वर्तत इति प्रह्लादेनोक्ते कंचित् स्तम्भं प्रदर्श्य अत्रास्ति वेति हिरण्यकशिपुना पृष्टे ओमिति पह्लादेनोक्ते स्तम्भे ताडयति हिरण्यकशिपौ सद्यस्ततः नरसिंहः प्रादुर्भुत इति कथा | महाबल: महत् बलं यस्य सः बलिनां बलवत्तमः । प्रह्लादवरदः: भक्ताग्रेसरस्य प्रह्लादस्याभीष्टदाता । सत्यः - अविकृतः । देवपूज्यः -- देवानां ब्रह्मादीनां पूज्यः । अभयङ्कर्ः-- सर्वेभ्यः प्राणिभ्योऽभयं करोतीति । ' अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम्' इति रामायणे ॥ १२५ ।।


 उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।
 गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ।। १२६ ॥

  उपेन्द्रः--इन्द्रानुजः ।

 'द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप।
 तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ।।'

इति वचनमुदाहरन्ति । यद्वा इन्द्रस्योपरि उपेन्द्रः इन्द्रात् उत्कृष्टः । इन्द्रावरजः – इन्द्रस्यानुजः । वामनः - स्वीकृतवामनावतारः । याचनार्थ हि वामनरूपोऽभूत । द्रष्टॄन् स्वकान्त्या वामानि सुखानि नयतीति वा वामनः ।


 ङ. पुस्तके 125 श्लोकपर्यन्तमेवोपलभ्यते ।