पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
गोपालसहस्रनामस्तोत्रम्


 मञ्जीररञ्जितपदः --मञ्जीरेण नूपुरेण रञ्जितौ आलिप्तौ आश्लिष्टौ पादौ यस्य सः। सर्वाभरणभूषितः -पूर्वोक्तैरनुक्तैश्च सर्वाभरणैरलङ्कृतः । विन्यस्तपादयुगलः --- भक्तानां शिरसि विशेषेण न्यस्तं निक्षिप्तं पादयुगलं येन सः । दिव्यपालविग्रहः - दिव्यं अप्राकृतं मङ्गलं शुभप्रदं शरीरं परव्यूहादिरूपं यस्य सः ॥ १०७॥


 गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।
 समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ १०८ ॥

 गोपिकानयनानन्दः --- गोपकन्यानां नयनयोरानन्दजनकः ।- पूर्णचन्द्रनिमाननः-षोडशकलापूर्णचन्द्रसदृशमाननं मुखं यस्य सः। समस्तजगदानन्द:--सर्वजगतामानन्दनः । कृष्णरूपदर्शनेन न केवलं पुमांसः स्त्रियो वा. अपि तु पक्षिपशुपभृतयोऽप्यानन्दभरेण व्यामुग्धा इति भागवते वर्ण्यते बहुत्र । सुन्दर:-विश्वातिशायिसौन्दर्यवान्। अत एव लोकनन्दनः दृष्टिमात्रेण लोकानामानन्दजनकः ॥ १०८ ॥


 यमुनातीरसञ्चारी राधामन्मथवैभवः ।
 गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ १०९ ॥

 यमुनातीरसञ्चारी-- गोपस्त्रीणामवलोकमादिवानेनानन्दनार्थं यमुनातीरे सञ्चरणशीलः। राधामन्मथवैभवः - राधायाः मन्मथतिशयः यस्मात् सः । गोपनारीप्रियः -गोपस्त्रीणां प्रियः । तथापि दान्त:- निगृहीतेन्द्रियः । गोपीवस्त्रापहारक:-गोपीनां स्नानार्थं यमुनामवगाढवतीनां तीरन्यस्तानि यानि वस्त्राणि तेषामपहर्ता ॥ १०९ ॥

 शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।  सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ ११० ॥

 शृङ्गारमूर्तिः-- रतिजनिका मूर्तिः यस्य सः ।