पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
गोपालसहस्रनामस्तोत्रम्


 ’कुर्वन्ति हि त्वयि रतिं कुशस्त्रः स्व आत्मन्
  नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।
 तन्नः प्रसीद परमेश्वर मा स्म छिन्द्याः
  आशां भृतां त्वयी चिरादरविन्दनेत्र ॥'

इति हि गोप्य ऊचुः। श्रीधामा - श्रिया लक्ष्म्या पत्न्या हेतुना धाम निरतिशय तेजः यस्य सः ।

 'अप्रमेयं हि तत्तेजः यस्य सा जनकात्मजा' (रा. 3-3-18) इति रामायणे। तारक:--मक्तान् वैरिचोरव्याध्यादिभयेभ्यः तारयतीति तादृशः । संसारसागरात् तारयतीति वा । मूलकारणम् - आदिभूतं कारमम् । सृष्टिसंरक्षणोपायः- जगसृष्टिस्थित्योः कारणभूतः । क्रूरासुरविमम्जनः - हिंसाणामसुराणां विनाशनः विशेषेण नाशकः ॥११०॥


 नरकासुरसंहारी मुरारिररिमर्दनः ।
 आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ १११ ॥

 नरकासुरसंहारी - नरनामकस्यासुरस्य नाशकः । नरकासुरसंहारवृत्तान्तः भागवते एकोनषष्ठितमेऽध्याये । मुरारि:--मुरनामकस्यासुरस्य शत्रुः। मुरसंहारवृत्तान्तोऽपि तत्रैवाध्याये । अरिमर्दन:--- अन्वेषामपि कामक्रोधादि- शत्रूणां विनाशनः । आदितेवप्रियः-आदितेयानां देवानां प्रीतिपात्रभूतः। आदितेयाः प्रिया: यस्येति वा । दैत्यभीकरः--दैत्यानां असुराणां भीतिकरः । यदुशेखरः-- यदुश्रेष्टः यदुवंशस्योद्वारकत्वात् ॥ १११ ॥ xxxxxxxxx

 पुण्यश्लोकः कीर्तनीयः यादवेन्द्रो जगन्नुतः ॥ ११२ ॥


 111 a..ख घ नरकासुरहारी च
 111 b क.घ ङ.. मुरारिर्वैरिमर्दनः
  घ .मुरारिर्वैरमर्दनः
 111 d क. बटुशेखरः..
  ख घ... भीकश्रशेवेन्दुशङ्करः