पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
गोपालसहस्रनामस्तोत्रम्


इव ग्रीवा कन्धरा यस्य सः । विशालाक्षः:-विक्षाले अक्षिणी नेत्रे यस्य सः। लक्ष्मीवान् -- अवयवशः समुदायेन च शोभावान् । शुभलक्षण:-शुभानि सामुद्रिकालक्षणानि यस्य सः ॥ १०४ ॥

 पीनवक्षाचतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।  कलङ्करहितः शुद्धः दुष्टशत्रुनिवर्हणः ॥ १०५ ॥

 पीनवक्षा:-पीन वक्षो यस्य सः । चत्वारो बाहवः यस्य स -  चतुर्बाहुः । चतस्त्रः मूर्तयः वासुदेवसङ्कर्षणप्रद्युम्ननिरुद्धाख्या यस्य स चतुर्मूर्तिःत्रिविक्रमत्रयो विक्रमाः पादाक्रमणानि यस्य सः । 'त्रीणि पदा विचक्रमे’ इति श्रुतेः । त्रीन् लोकान् क्रमते आक्रामतीति वा त्रिविक्रमः

 त्रिरित्येवं त्रयो लोकाः कीर्तिता मुनिसत्तमैः ।  क्रमते तांस्विधा सर्वात्रिविक्रम इति श्रुतः ।'

इति हरिवंशे (३-८८-५१) त्रिषु लोकेषु विक्रमो पराकमो यस्येति वा । कलङ्करहित:-निर्मलः । शुद्धः --अनाध्राताज्ञानादिदोषगन्धः दुष्टशत्रुनिवर्हणः - दुष्टानां शत्रूणां कंसादीनां विनाशनः ॥ १०५॥


 किरीटकुण्डलघरः कटकाङ्गदमण्डितः।
 मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ १०६ ॥

 किरीट कुण्डले च धारयतीति किरीटकुण्डलधरः। कटकाङ्गदमण्डितः- वलय केयूराभ्यां भूषितः । मुद्रिकाभरणोपेतः- मुद्रिकाख्यांभरणयुक्तः । मुद्रिका अङ्गुलीयकम् । तदाख्याभरणयुक्तः । कटिसूत्रविराजित:- कटिसूत्रेण दीप्यमानः ॥ १०६ ॥


 मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।
 विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ १०॥