पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
गोपलसहस्रनामस्तोत्रम्

 'कृष्णद्वैपायनं व्यासं विद्धि नारायणात्मकम् ।
 को ह्यन्यो भुवि मैत्रेव महाभारतकृद्भवेत् ॥'

(वि.पु. 3-4-५)

 नारायणः -- कृतव्याख्यानमेतत्पदम् । दिव्यः दिवि भवः अप्राकृतश्रीवैकुण्ठनिलयः । भव्यः मङ्गलस्वरूपः । भावुकधारक:- ईश्वरभावनां कुर्वन्ति ये भक्ताः ते भावुकाः तेषां धारकः धारणहेतुः जीवनप्रदः । विना क्षणमपि भगवन्तं न प्राणान् धारयन्ति हि भक्ताः । श्वःश्रेयसादयः शब्दाः मङ्गलपर्यायाः ॥ ७०


 शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा ।
 ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ ७१॥

 शुभात्मक-मङ्गलस्वरूपः । शुभः आत्मा विग्रहो यस्येति वा । शुभः समानोऽर्थः । शास्ता -श्रुतिस्मृत्यादिभिः सर्वेषां शासनं करोतीति तादृशः आज्ञापयिता । प्रशस्ता-प्रकृष्टशासनकर्ता । शासनस्य प्रकर्षो नाम अप्रतिहतत्वं सर्वविषयकत्वं वा । शासन नियमनम् । मेघनादहा मेघनादापरनामकमिन्द्रजितं रावणपुत्रं लक्ष्मणरूपी हतवान् । ब्रह्मण्यदेवः ब्रह्मण्यः वेदतपोब्राह्मणादीनां हितकरः स चासौ देवश्च। अथ वा ब्रह्मण्यः भगवद्भक्तजनः देवो यस्य सः। दीवानां - अकिञ्चनजनानाम् उद्धारकरणे क्षमः-शक्तः।  'तेषामहं समुद्धर्ता मृत्युसंसारसागरात्' (गी. 12-7) इति गीतायाम्’


 कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
 कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ २ ॥

 कृष्णः -- कंसादिमारासहिष्णोः भूदेव्याः सुखकरः । ’कृषिर्भूवाचकश्शब्दः णश्च निर्वृत्तिवाचकः' इति स्मरणात् । कमलपत्राक्षः- पद्मपत्रे


  71 b क ङ. प्रशस्तो मेघनादहा