पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
right५३
गोपालसहस्रनामस्तोत्रम्

भक्तेषु प्रेम प्रीतिरस्यास्तीति प्रेमी। भक्तैः स्वस्मिन् क्रियमाणेन प्रेम्णा भक्तेषु प्रेम यस्येति वा । चन्द्रावलीपतिः ---- चन्द्रावलीनामिकाया गोपिकायाः पतिः। यद्वा मुखकपोलमस्तकनखरूपाणां चन्द्राणां आवल्याः पङ्क्तेः धारकः || ६८॥


 श्रीकर्ता विश्वभर्ता च नरो नारायणो बली ।
 गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ ६९ ॥

<poem>
 श्रियं लक्ष्मीं अवतारकाले स्वानुरूपां करोतीति श्रीकर्ता। 'देवत्वे
देवदेहेयं मनुष्यत्वे च मानुषी (वि.पु. 1-9-145) स्मरतां स्तुवतां अर्चयतां
च भक्तानां श्रियं करोतीति वा। विश्वभर्ता- विश्वं बिभर्तीति । 'यो
लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः। (गी.15.57) इति गीतायाम् । नरो
नारायणः - नरनारायणस्वरूपी । बली-धारणसामर्थ्यवान् । गणः--
देवगणवान् । गणपतिः - परिवारदेवगणस्याधिपतिः । दतात्रेयो महामुनिः-
दत्तात्रेयसंज्ञको महान् मुनिः ।

' काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
 काषायधारिणा पूर्वं विष्णुना रक्षिता त्रयी।।'


इनि प्रमाणवचनमत्र स्मर्तव्यम् ॥ ६९ ॥
<poem>

 व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
 श्वःश्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् ॥ ७० ॥

 वेदाः पुराणानि च व्यस्ताः विभक्ताः अनेनेति व्यासः। व्यासस्वरूपी। व्यासो नारायण इति प्रसिद्धम् ।



 69 c क.ख.घ.ङ. नारायणनरो बली
 70c क इवश्चेवकं
  ङ. स्वः श्रेयसम्
 70 d क.भावुकं भवुकं
 70 ख.भावुकं भविकं
-