पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
गोपलसहस्रनामस्तोत्रम्


’आज्ञाप्योऽहं तपस्विनाम्” । (रा. 3-6-22) 'ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। (रा. 1-16-1) इति रामायणे । समस्तानि भूतानि जयतीति वा जयः ॥ ४७॥


 फाल्गुनः फाल्गुनसखो विराधवधकारकः ।
 रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥

फाल्गुनः - अर्जुनरूपः 'पाण्डवानां धनञ्जय’(गी. 10-37) इति स्मृतेः। हिमालयशिखरे उत्तरफल्गुनीनक्षत्रे अर्जुनस्य जन्माभूत् । अतः फाल्गुन इत्यर्जुन उच्यते। नरनारायणरूपत्वेनार्जुनकृष्णौ पुराणप्रसिद्धौ । अतोऽत्र नरात्मकार्जुनस्वरूप इत्यर्थः । फाल्गुनसखः- अर्जुनस्य सखा श्रीकृष्णः । 'सखेति मत्वा प्रसभं यदुक्तम्। (गी. 11-41) इति गीतायामर्जुन: कृष्णं प्रत्याह । विराधवधकारक:---रामावतारे विराधाख्यस्य राक्षसस्य हन्ता । रुक्मिणीप्राणनाथ:- रुक्मिणीदेव्याः प्राणसमो भर्ता । सत्यभामाप्रियंकर:-सत्यभामाया: पारिजाताद्यर्पणेन प्रियं करोतीति तादृशः ॥४८॥


 कल्पवृक्षो महावृक्षः दानवृक्षो महाफलः ।
 अङ्कुशो भूसुरो भावो भ्रामको भामको हरिः ॥ १९॥

कल्पवृक्ष:-कल्पवृक्षवत् कामितफलप्रदः । महावृक्षः संसारतापतप्तानां निवासप्रदः महान् वृक्षः । यथा वृक्षच्छायामाश्रितस्य तापा अपयन्ति तथा परमात्माख्यवृक्षमाश्रितस्य संसारतापोऽपैतीत्यर्थः ।


 'निवासवृक्षस्साधूनामापन्नानां परा गतिः ।
 आर्तानां संश्रयश्चैष यशसश्चैकभाजनम् ॥'

(रा. 4-15-19)

-


--

-  49 c. ख घ. भूसुरो भामो
 49 d .ख.घ ङ्.भामको भ्रामको हरिः