पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
गोपालसहस्रनामस्तोत्रम्



 भ्रमरः कुन्तली कुन्तीसुतरक्षो महामखी ।
 यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६ ॥

 भ्रमरः भागवतहृत्पद्ममधुपः भक्तहृदयनिवासीत्यर्थः । भ्रमन् नृत्यन् रौति गायतीति वा भ्रमरः । कुन्तली-प्रशस्तस्निग्धनीलकेशः कुन्तीसुतरक्षः- कुन्तीपुत्रस्यार्जुनस्य रक्षकः। महामखी- महान्तः मखाः अस्य सन्तीति, सर्वयज्ञसमाराध्य इत्यर्थः । यज्ञानां महत्त्वं च भगवत्प्रीणनबुद्ध्या अनुष्ठीयमानत्वम् । वैदिकतान्त्रिकादिरूपेण वैविध्यं वा। यमुनावरदाता ---यमुनानद्या अभीष्टवरप्रदः । तत्कूले तस्यां च विहरणेन तस्याः सन्तोषप्रद इत्यर्थः । काश्यपस्य वरप्रदः- अदित्या सहित; काश्यपः वर्षसहस्रं तपस्तेपे तेन तुष्टो विष्णुः परं वरयेत्युक्तवान् । त्वं मम पुत्रो भवेति काश्यपः पार्थयामास । ततो विष्णुर्वामनरूपेण अदित्यां समजायतेति रामायणे बालकाण्डे एकोनत्रिंशे सर्गे स्थिता कथात्रानुसन्धेया !॥ ४६ ॥


 शङ्खचूडवघोद्दामो गोपीरक्षणतत्परः ।
 पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७ ॥

 शङ्खचूडवधोद्दामः -- शङ्खचूड़ाख्यासुरवधे क्रूरः । शङ्खचूडवधोदामीति पाठे शङ्खचूडस्य वधो यस्मात्त् स शङ्खचूडवधः । उदरे बन्धनरज्जुरस्यास्तीति दामी । गोपीरक्षणतत्परः-गोपस्त्रीणां रक्षणे आसक्तिमान् । पाञ्चजन्यकर:--- पाञ्चजन्याख्यः शङ्खो हस्ते यस्य सः । रामी- रमणशीलः । रामाः रमण्योऽस्य सन्तीति वा । रामो रमणं सर्वत्रान्तर्यामितयास्यास्तीति वा । त्रिरामी परशुराम-दाशरथिराम-बलरामाख्यरामत्रयस्वरूपी । त्रिषु स्थानेषु गोकुलमधुराद्वारकाख्येषु अतिशयेन रामो रमणं क्रीडा अस्यास्तीति त्रिरामीति वा । वनजः --वने जले मत्स्यादिरूपेण जायमानः । जयः-- आश्रितविधेयः आश्रितैर्जीयते विधेयीक्रियत इति जयः। यथा-


 46 b क.ख. घ. सुतरक्षी
 47. a क ङ. शङ्खचूडवधो दामी