पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
सहस्रनामस्तोत्रम्


इति रामायणे तारा श्रीरामचन्द्रं स्तौति । दानवृक्षः -- अपेक्षितदाता वृक्ष: महाफलः महान्ति फलानि यस्मिन् स इति दानवृक्षस्य विशेषणम् । महान्ति फलानि यस्मात् भवन्ति स इति वा। अङ्कुशः- शत्रूणां विषये अङ्कुशतुल्यः । भूसुरः--ब्राह्मणस्वरूपः । भावः – सर्वभूतविशिष्टतया भवतीति भावः । 'भवतेश्चेति वक्तव्यम्। (वा.पा. सू. 3-1-143) इति णप्रत्ययः । 'बहु स्यां 'प्रजायेय' (तै. उ. आनन्द ३0) इति श्रुत्युक्तप्रकारेण प्रपञ्चरूपेण भवतीति वा। 'अजायमानो बहुधा विजायत' इति बहुधा जायमानः अवतरन् वा । भावयति उत्पादयति सर्वमिति वा भावः । भ्रामकः- अभक्तानां तत्त्वविषये विपरीतज्ञानजनकः । 'सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः' (गी. 3-32) इति गीतायाम् । भामकः 'भाम क्रोधे इति धातोः कर्तरि ण्वुल् भगवद्भक्तेषु येऽपकुर्वन्ति तेषु क्रोधकर्ता । रावणेन कृतव्रणम् हनुमन्तं दृष्ट्वा रामः रावणविषये क्रोधमाहारयामास इति रामायणे-

 'ततो दृष्ट्वा हनुमन्तं रावणेन कृतव्रणम् |  दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥'

(रा. 6--159-136)

हरिः – पापहर्ता । 'हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । इति पुराणे ॥४९॥


 सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः ।
 प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५० ॥

सरलः - उच्चनीचभावमनपेक्ष्य सर्वैः सह संश्लेषशीलः । शाश्वतः- नित्यः । वीरः-पूर्वमेव कृतव्याख्यानमेतत्पदम् । पराक्रमीत्यर्थः । यदुवंशी -- यादवानां वंशे समुद्भूतः । शिवात्मकः - रुद्रस्वरूपी सर्वमङ्गलकरस्वभाव इति वा । प्रद्युम्नः - प्रकृष्टं द्युम्नं घनमस्येति प्रद्युम्नः प्रकृष्टैश्वर्यः । आत्मप्रद्योतनलक्षणमैश्वर्यमस्येति वा । बलकर्ता- बलस्य आत्मज्ञानसाधनस्य बलस्य प्रदाता । 'नायमात्मा बलहीनेन लभ्यः' इति श्रुतिः । गोवर्धनोद्धारणादौ