पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
गोपालसहस्त्रनामस्तोत्रम्


पुराणप्रसिद्धम् । गोवर्धनरूपेण ईप्सितप्रदो वा। नन्दप्रभृतीनां गोकुलनिवासिनां रक्षकः नन्दादिगोकुलत्राता। नन्दादीनां गोसमूहस्य च त्रातेति वा। दाता-पुरुषार्थचतुष्टयस्य । दारिद्र्यभञ्जनः-- कुचेलादीनां दारिद्र्यस्य नाशकः ॥ ७॥


 सर्वमङ्गलदाता च सर्वकामप्रदायकः।
 आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८॥

सर्वमङ्गलदाता-सर्वेषां मङ्गलानां प्रदाता। सर्वकामप्रदायकः-- सर्वेषां कामानां इच्छाविषयफलानां प्रदाता। प्रथमसृष्टिकर्ता आदिकर्ता। आदिर्मुख्यश्चासौ कर्ता च संहारकश्चेत्यादिकर्तेति वा । 'कृञ् हिंसायाम् । इति धातोः। 'यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः' (कठ. 2-25) इति श्रुतेः । महीभर्ता भृदेवीपतिः । सर्वसागरसिन्धुजः सर्वेषु सागरेषु सिंधुषु च जायते मत्स्यादिरूपेणेति तादृशः ॥ ८ ॥


 गजगामी गजोद्धारी कामी कामकलानिधिः ।
 कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९ ॥

 

गज इव गच्छतीति गजगामी । गजेन गच्छतीति वा गजगामी ।

 'स्त्रीभिर्नरैश्च सानन्दं लोचनैरभिवीक्षितौ।
 जम्मतुर्लील्या वीरौ मत्तौ बालगजाविव ॥' (वि. पु. 5-19-13)

इति विष्णुपुराणे।

 'इच्छामो हि महाबाहुं रामं राजीवलोचनम् ।
 गजेन महता यान्तं रामं छत्रावृताननम् ||' (रा. 2-2--22)

इति रामायणे। गजोद्धारी– गजस्य महाह्रदे भगवत्पादयोः समर्पणार्थं पद्मभवचेतुमवगाहनसमये नक्राक्रान्तस्य गजेन्द्रस्य 'आदिमूल' इत्युच्चै-

-


.   8 b. क. सर्वकामवरप्रदः .