पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
गोपालसहस्रनामस्तोत्रम्


सूर्यतप्तानां चन्द्ररूपेण रात्रौ प्रियं करोतीत्यर्थः। यद्वा दिवा गोचारणाय गतस्य स्वस्य विरहेण तप्तानां गोपीनां रात्रौ स्वसंयोगेन प्रियं करोतीति तादृशः । कमलामुखलोलाक्ष:-कमलाया: लक्ष्म्याः मुखे विषये लोले तरले अक्षिणी यस्य सः । कमलामुखदर्शनासक्तनेत्र इत्यर्थः । पुण्डरीकः---पुण्डरीकसदृशः। शुभावहः - भक्तानां मङ्गलप्रदः ॥ ५॥


 दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः ।
 गोविन्दो गोपतिर्गोपः कालिन्दीप्रेमपूरकः ॥ ६ ॥

दुर्वासाः - महर्षिविशेषरूपः । दूर्वाश इति पाठे ब्रह्मणा वत्सापहरणकाले स्वयमेव कृष्णः वत्सरूपेण दूर्वामश्नातीति दूर्वाशः । कामधेनुरूपेण वा दूर्वाशः। 'धेनूनामस्मि कामधुक्' (गी. 10-18) इति गीतावचनात् । कपिलः - कपिलवर्णः, कपिलाख्यऋषिरूपी वा। के जलं पिबतीति कपिः सूर्यः, तस्मै लाति स्वतेजो ददातीति वा कपिलः । 'यदादित्यगतं तेजः’ (गी. 15-12) इति स्मरणात् । भौमः- भूमौ भवः अवतीर्णः । सिन्धुसागरसङ्गमः-- सिन्धुसमुद्रौ सङ्गमयतीति तादृशः । गोविन्दः - चतुर्थश्लोके विवृतोऽयं शब्दः। गोपतिः- वाक्पतिः सकलवाङ्निर्वाहकः । गोप:- गोपालकः । कालिन्दीप्रेमपूरकः - कालिन्द्याः यमुनायाः प्रेम्णः प्रीतेः पूरकः । तज्जलक्रीडादिना वर्धकः ॥ ६ ॥


 गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।
 नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७ ॥

गोपानां गोपालानां स्वामी गोपस्वामी । गोकुलस्येन्द्रः अधिपतिः गोकुलेन्द्रःगोवर्धनवरप्रदः-गोवर्धनाख्यस्य पर्वतस्य वरं ददातीति तादृशः । कुपितेनेन्द्रेणाविच्छेदेन वर्षणे कृते सति तस्याभयप्रदः कृष्णः इति


 6 c. क. ख घ.. गोपतिर्गोत्रः.ग. गोपतिर्गोप्ता, ङ. गोपतिर्गोत्रम् ।

 7.a क. गोगोस्वामी 7a. ग. गोस्वामी गोकुलेन्द्रो गोगोवर्धन...

 7 d. ङ्. दारिद्रभञ्जक: