पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
गोपालसहस्रनामस्तोत्रम्


राह्वयमानस्योद्धर्ता । कामी - गोपीकामुकः । कामकलानिधिः-कामशास्त्रस्य खनिः कामशास्त्रनिपुण इत्यर्थः । रासक्रीडादौ प्रसिद्धमेतत् । यद्वा कामकलानिधिः--कामकलानां निधिराधारः। सिंहविक्रमादयः षोडशविधाः स्रानादयः, षोडशशृङ्गाराः, आश्लेषादीन्यष्टौ, मैथुनानि आभ्यन्तरो बाह्यश्चेति द्विविधो रतिभेदः, श्रवणादिचतुर्विधं दर्शनम्, विभावादयः पञ्चभावाः, हेलादयस्स्त्रयोदश हावा इति चतुष्षष्टिः कामकलाः कामशास्त्रोक्ताः, तासां निधिराधारः इत्यर्थः । चन्द्रविम्बास्यः -- चन्द्रबिम्बमिव मुखं यस्य सः। मुखस्य चन्द्रबिम्बसदृशत्वे चन्द्रबिम्बवत् कलङ्कवत्त्वमपि स्यात् इत्याशङ्क्याह-कलङ्करहितइति । यद्वा कलङ्करहितः दोषशून्यः । चन्द्रः सर्वाह्रादकः । 'नक्षत्राणामहंशशी' (गी. 10-21) इत्युक्तेः । बिम्बसत्तमः--बिम्बेषूत्कृष्टः, प्रतिमादावतिशयेन सन्निहित इति वा ॥ ९॥


 मालाकारः कृपाकारः कोकिलस्वरभूषणः ।
 रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥ १० ॥

मालाकारकृपाकार इति पाठः साधुः। मालाकारे कृपां करोतीति तादृशः। मालाकारः पुष्पमालानिर्माणवृत्तिः मालाकारानामा कश्चित् श्रीकृष्णेन पुष्पाणि याचितः अतिप्रहृष्टवदनः पुष्पाणि ददौ । तेन प्रसन्नः श्रीकृष्णः तस्मै सर्वाभीष्टवरान् ददौ इति पुराणे प्रसिद्धम् ।

 'मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान् ।
 श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यनिष्यति ॥'

इत्यादि विष्णुपुराणे । कोकिलस्वरभूषणः --- कोकिलस्य स्वर इव स्वरः कोकिलस्वरः सः भूषणमलङ्कारो यस्य सः। रामः-लोकरमणः बलराम इत्यर्थः । नीलं अम्बरं वस्त्रं यस्य स नीलाम्बरः। बलरामस्य नीलाम्बरत्वं



 10. a ग.ङ.मालाकारकृपाकार:
 10. b ख.घ.कोकिलास्वर-
 10 d ग..ङ दुर्दाममर्दनः