पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
गोपालसहस्रनामस्तोत्रम्


मन्त्रो सन्तानगोपालमन्त्रादिः व्यापक-सर्वव्यापी। लोकपावन:- सर्वेषां लोकानां पवित्रत्वापादकः ।। १३८ ॥


 सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
 विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ १३९ ॥

 सप्तकोटिमहामन्त्रशेखर -- सप्तकोटिसङ्ख्याकाः महामन्त्राः शेखरायमाणाः यस्य सः । तावन्मन्त्र श्रेष्ठः पतिपाद्य इत्यर्थः । देवशेखर:- देवेषु श्रेष्ठः । विज्ञानज्ञानसन्धानः -- विशिष्टं ज्ञान सामान्यतः तत्वयाथात्म्यज्ञानम् । अनयोः सन्धानः सन्धाता संश्लेयिता। तेजोराशि:-तेजः पुञ्जरूपः । जगत्पतिः - जगत्स्वामी जगत्पालको वा ।। १३९ ॥


 भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।
 भक्तदारिद्य्रमनो भक्तानां प्रीतिदायकः ॥ १४०॥

 भक्तलोकप्रसन्नात्मा-भक्तजनेष्वनुग्रहशीलं मनः यस्य सः । भक्तमन्दारविग्रह:-~-मताभीष्टदातृकल्पवृक्षस्वरूपः । भक्तदारिद्य्रदमनः भक्तानां दारिद्य्रस्य नाशनः । कुचेलोपाख्यानादौ प्रसिद्धमिदम् । भक्तानां प्रीतिदायक:- स्वस्वरूपविग्रहादिप्रदर्शनेन भक्तानां प्रीतिजनकः ॥ १४० ।।


 भक्ताधीनमनाः पूज्यः भक्तलोकशिवङ्करः ।
 भक्ताभीष्टप्रदः सर्वभक्ताधौघनिकृन्तनः ॥ १४१ ॥

 अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ १४२ ॥

 भकाधीनमनाः - भक्तजनपरतन्त्रं मनो यस्य सः। पूज्यः -- पूजार्हः। भक्तलोकशिवङ्कर:- भक्तजनानां भद्रपदः। भक्ताभिष्टप्रदः भकानामभीष्टं फलं प्रकर्षेण ददातीति तादृशः । सर्वभक्ताद्यौघनिकृन्तन:- सर्वेषां भक्तानां पापसमूहस्य नाशनः । अपारकरणासिन्धुः - पाररहितः दयासमुद्रः । भगवान् वाङ्गुण्यपरिपूर्णः परमात्मा । भक्ततत्परः --- भक्त्तेषु आसक्तिमान् ॥ १४१-१४२ ॥