पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 

अथ फलश्रुतिः

अथ निरुक्तगोपालसहस्रनामस्तोत्रानुसन्धानस्य फलान्युच्यन्ते

स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम्॥ १॥

 पूर्वोक्तगोपालसहस्रनाम्नां स्मरणात् अनादिकालसंचितानां पापराशीनां पापसमूहानां खण्डनं नाशनं भवति । तथा मृत्युनाशनं मृत्योः नाशनं भवति। तथा मृत्युनाशनं मृत्योः नाशनं भवति । गोपालनामसहसकं स्वस्मरणमात्रेणैव स्मर्तुः पापसमूहखण्डकं मृत्युनाशकं च भवतीत्यर्थः । मृत्युशब्देन संसार उच्यते ॥१॥


 वैष्णवानां प्रियकरं महारोगनिवारणम् ।
 ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥२॥

 वैष्णवानां विष्णुभक्तानां प्रियकरं प्रीतिजनकमेतत्सहस्रनामानुसन्धानम् । एतत्पठनेन वैष्णवाः सन्तुष्टा भवन्तीत्यर्थः । तथा महारोगनिवारणं महतां रोगाणां संनिपातज्वरादीनां निवर्तकम् । ब्रह्महत्यासुरापानं ब्राह्मणहननात्मकं सुरापानात्मकं च पापं नश्यतीत्युत्तरत्र सम्बन्धः । नाशोऽत्र निष्फलता । ब्राह्मणहननादिकं कृतमपि सहसनामपठनमहिम्ना अनर्थाय न भवतीत्यर्थः । परस्त्रीगमनात्मक पापमपि नश्यति ॥ २॥


 परद्रव्यापहरणं परद्वेषसमन्वितम् ।
 मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ ३ ॥

 परद्रव्यापहरणम् --- अन्यदीयद्रव्यापहरणरूपम् । परद्वेषसमन्वितं परस्मिन् द्वेषेण सहितं, मानसं - मनसा चिन्तितम्, वाचिकं - वाचा उच्चारितम्,


  ख. घ. पुस्तकयो: 'स्मरणात् पापराशीनाम् ' इत्यत:प्राक '
   इति श्रीराधिकानापसहस्र नाम कीर्तितम् ' इत्यर्थमधिकं दृश्यते ।-
 1 c d क. स्मरणात् पापराशीनां पठनान्मृत्युनाशनम्
 2 b क. महादारिद्रनाशनम्
 3 b क. नरद्वेव
 3 d. घ. पादसम्भवम्