पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
गोपालसहस्रनामस्तोत्रम्


 गोपालङ्गनावृतः - गोपस्त्रीभिः परिवृतः । वृन्दावनसमाश्रयः वृन्दावनं वासस्थानं यस्य सः । वेणुवादरत:-वेणुवादने आसक्तिमान् । श्रेष्ठः – सर्वोत्कृष्टः, पुरुषोत्तमत्वात् । देवाना हितकारकः---इन्द्रादीनां देवानां अपेक्षितार्थसाधकः ।। १३६ ॥


 बालक्रीडासमासक्तो नवनीतस्य तस्करः ।
 गोपाल कामिनीजारश्चौरजारशिखामणिः ॥ १३७ ॥

 बालक्रीडासमासक्तः --- बालानां याः क्रीडाः तासु आसक्तः । अत एव नवनीतस्य तस्करः चोरः ! आश्रितपारतन्त्र्यादिकं उलूखलबन्धनादिनां प्रकाशयितुं नवनीतचौर्यमकरोत् कृष्ण इत्याहुः । गोपालकामिनीजारः -- गोपपत्नीनामुपपतिः पतिवत् भोक्ता। अत एव चौरजारशिखामणिः -- चोराणां जाराणां च श्रेष्ठः ॥ १३७ ॥


 परं ज्योतिः पराकाशः परावासः परिस्फुटः ।
 अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८ ॥

परं ज्योतिः -- उत्कृष्टज्योतिस्वरूपः। 'परं ज्योतिरुपसम्पद्य। (छा. 8-12-2) 'यदतः परो दिवो ज्योतिर्दीप्यते। (छा.3-13.7) इत्यादिश्रुतेः । पराकाश:- आसमन्तात् काशते प्रकाशते इत्याकाशः परः उत्कृष्टश्वासावाकाशश्च पराकाशः । 'दहरोऽस्मिन्नन्तर आकाशः' (छा.8-1-1) 'आकाशो ह वै नामरूपयोर्निर्हिता' (छा.8-14.1) इत्यादिश्रुतेः। परावास: परः उत्कृष्टः आवासः निवासस्थानम् । 'निवासवृक्षः साधूनाम्' इति रामायणे। परिस्फुट:-- अत्यन्त स्फुटतया प्रकाशमानः, भक्तानामिति शेषः । अष्टादशाक्षरो मन्त्रः--अष्टादशाक्षरयुक्तमन्त्रप्रतिपाद्यः । स च


 137 d ख.चोरजार-  138 a. ख परज्योतिः