पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तागमस्तवः। जीवाजीवनिरूपिद्वेषाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्यौ या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारावासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाझोपाध्यायेम । जीवाना- मुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥ षत्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ षट्त्रिंशता पदैरधिकारर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाजोपाझं पनायामि तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः। तत्र तदधिकारात् ॥ विवृताधद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूद्वीपप्रज्ञते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाजोपाङ्ग......... .."विवृता प्रकटिता आयद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये । गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजावे नवरं केवलं गुम्फवपुषेव गुम्फेनैव नव्ये भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः । अपिशब्दाच्छन्दतोऽपि । कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेधीरन् ।। २७ ।। कालादिदशकुमाराणां चेटककोपिकवैरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिाभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवयंसिकास्ताः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवलमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपामहे ।..........॥ चन्द्रसूर्यबहुपुत्रिकादिभियंत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ २९ ॥