पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अङ्गुनादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिन्नां विधानां भवनं स्थानम् । आश्रयविधिः कर्म पुइलानां संवरतनिरोधः । निर्णीतं तयोः स्वरूप यासु ताः प्रश्नव्याकरणदशा दशमा नोऽस्माकं शं सुखं दिशतु ॥ 'ज्ञातैर्मुगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पतिसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥२०॥ मृगापुत्रसुबाहुवादिभिदृष्टान्तैः सुखदुःसकर्मणां विपाकं परिणाम शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाक- श्रुतमेकादशमॉ नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवांदेः' इत्यनेन सूत्रेण परतो वलम् । एतान्यप्येकादशान्यनानि श्रीसुधर्मखामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्धतत्वेन सर्वगणधरपिशष्याणामेतद्वाचनामहणात् । अत एवादी श्रीसुधर्मा नमस्कृतः॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥ याणिधाय स्मृखा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ता। अति. देशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमायाराजोपार्ज देवनारकाणामुपपाद उत्पादस्तस्य वैचित्री प्रकटयत् हे विद्वांसः, यूयं नमत । आचारा- अस्य शासपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं "एवमेगे सिनोनायं भवई' इत्यादि । अत्र सूने यदीपपातिकलमात्मनो निर्दिष्टं तदत्र प्रपञ्चयत इत्यर्थः । अस्योपसमीप इत्युपाङ्गम् ॥ सूर्याभवैभवविमावनष्टतीर्थ- प्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राज- प्रश्नीयमिद्धमुपपत्रिशतैर्महामि ॥ २२ ॥ सूर्याभदेवस्य वैभवभूद्धिस्तस्य विभावनेनेक्षणेन हुई बत्तीर्थ प्रथमगणधरश्चतुर्विधः संथो व तस्य प्रश्नापृच्छाया अनन्तरमिनस श्रीधीरस्थाननं मुखं ततो निर्गतेन ! केली. गणमृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोमि । उपपत्तिशतैर्युतिशतैरिद्धं दीप्त राजप्रश्नीय सूत्रकृदुपामहं महामि । प्रदेशी केशिना प्रतियोघितो देवलमाप्य श्रीवीर वन्दित समवस्तौ गतः तन्त्रात्यद्भुतं तस तेजो वीक्ष्य श्रीसंभेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यः किमित्ययमुत्कृष्ट इति ॥