पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तागमस्तवः। या पत्रिंशत्सहसान्प्रतिविधिसजुषां विनती प्रश्नवाचा चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह- प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोषः ॥ १४ ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचा षट्त्रिंशत्सहस्रान्बिभ्रती दधती या चखारिंशच्छवेष्वधिकारविशेषेधूद्देशकानां श्रेणि परितः सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नाम्नी पञ्चमाझं रमन्तो ये भङ्गा रचनाविशेषास्वैरुत्तरका उत्कल्लोला तया युक्तयो गमाः सदशपाठातैर्गहना प्रन्थिला अकुशलैर्दुर्विगाहा विचित्रार्थकोषो जयति । भगवतीति पूज्याभिधानम् ॥ कथानकानां यत्रार्धचततः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये ॥ १५ ।। यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम षष्ठमनमुत्क्षिप्ता- दिभि तैदृष्टान्तैर्हद्या श्रियेऽस्तु (श्रये ॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभगार्था उपासकदशा नाम सप्तमाझं विशदा भावदृशं मम सदा दिशन्तु । महदृषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः सरतोचैरन्तकृदशाः कृतिनः ।। १७ ॥ गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि सिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः, उन्यूयं स्मरत ।। गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥ १८॥ यदध्ययनकलापे कीर्तिताः कथिताः प्रशमिषु ऋषिषु गुणैश्चारित्रादिभिरनुत्तराः प्रधानाः । जालिमुख्यका जालिनाम ऋषिः स एव मुख्यो येषां ते जालमुख्यकाः । खार्थे कप्रत्ययः । अनुत्तराणि विजयादीनि पञ्चविमानानि तेषां नियमभजन । अनु- रोपपातिक्रमित्युपपदं पूर्वपदं यासी ता अनुत्तरोपपातिकदशा अहं श्रयामि ।। अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यानां भवनमुदाचवैभवानाम् । निर्णीताश्रयविधिसंवरखरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः॥१९॥