पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ काव्यमाला। अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८ ॥ श्रुतमेव सौधं गृहं तदोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनरस्य द्वाराणीवा- नुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहदिनी पत्रिंशदुत्तराध्ययिनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ ९॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हदिनी नदी षत्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां ] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्थश्रीवीरतीर्थवर्तिभिनीरदादिभिः प्रणीतानध्ययनविशेषान् ॥ उच्चैस्तरोदश्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १०॥ आचारविचारचारू योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकलादाचार नामाथ- मङ्गमहं प्रपद्ये श्रये । किविशिष्टम् । उच्चस्तराः शब्दार्थाभ्यामतिशायिन्य उदचिताः प्रकटीकृताः पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाधूडासंज्ञाः । पुनः किंविविष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगमिनीविद्या तस्य । तत एवोद्धय श्रीवास्वामिना प्रभावना कृता । त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददाद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकुदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृद शिवश्रिये कृतस्पृहोऽहमाद्रिये आनयामि । किविशिष्टम् । त्रिषष्ठ्यधिकशतत्रयीमिता । ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्याद्रिविभेदे हादिनी वनसमम् ॥ स्थानाङ्गायदशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थाना- म्यधिकारविशेषाः तथाहि-'तनुइन्दा ....म्म बन्धन्ति' इत्यादयः । एवमेसेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाशायाहं नमामि । "विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाशायेवि संप्रदानम् ॥ तत्चत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥ १३ ॥ वास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽस्तेिषां प्ररूपणं कथनं तत्र परायण तात्परं सतां समवायः समूहैः समवायाझं वयं स्तुमः ।।