पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला।


श्रीजिनप्रभसरिविरचितः सिद्धान्तागमस्तवः। सावचूरिः । ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं गिरवद्याहारग्रहणाभिप्रह- वद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमति- लकसूरीणां लशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकलेपचित्रच्छन्दोविशेषादिनवन. वमनीसुभगाः सप्तशतीमिताः स्खवा उपदीकृता निजनामारिताः । तेप्वयं सर्वसिद्धान्त- स्तवो बहूपयोगिलाद्विप्रियते- नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च भुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ गुरुभ्यः श्रुतदेवतायै सरस्वसै सुधर्मणे च पञ्चमगणधराय नला । त्रिपु नतिक्रिया । 'अमिप्रेयलाचतुर्थी' इति सूत्रेण संप्रदानाचतुर्थी । श्रुतभक्तिरितोऽहं निरुद्धा रुखा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि ॥ सामायिकादिकषडध्ययनस्वरूप- मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिमाण्यवरचूर्णिविचित्रवृत्ति- स्पृष्टीकृतार्थनिवहं हृदये वहामि ॥ २॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुर्विशतिस्तव-वन्दनकति- ऋमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । भिवरमाया (मोक्षलक्ष्न्याः) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रयाहु- कृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपश्यनम् । बरावचूर्णिरष्टादशसहनप्रमाणा पूर्वर्षिविहिता । विचित्रवृतिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टी- कृतोऽयनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥ युक्तिमुक्ताखातिनीरं प्रमेयोनिमहोदधिम् । विशेषावश्यकं तौमि महाभाष्यापराह्यम् ॥ ३ ॥ १. स्तोत्रस्यास्सैकमेवाष्टपत्रात्मकं सटी पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तब नातिशुद्ध शतवर्षप्राचीनसिवानुमीयते तदाधारीतन्मुद्रणं विहितमस्ति.