पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । भात व तथाविधं किमपि तन्निर्वाणदं तर्हि किं शून्यं पश्यसि पङ्गुवननु गतं नोपक्रमे तिष्ठति ॥ ९७ ॥ शौक्ल्ये हंसबकोटयोः सति समे यद्गतावन्तरं काष्ण्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । प्रत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता मानुष्ये सदृशे तथार्यखलयोर्दूर विभेदो गुणैः ॥ १८ ॥ त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता- स्तत्कि विडम्बयसि मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ संपत्स्यते मम कदाचन तदिनं किं सध्यानरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि यनेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥१०॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती ॥ १०१ ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिषया ख्यातच तस्याङ्गजः पद्मानन्दशतं(इति) व्यत्ति सुवियामानन्दसंपत्तये ॥ १०२ ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये श्रीखण्डद्वलेपने न च न च द्राक्षारसाखादने । आनन्दः स सखे न च कचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः खादितः खेच्छया ॥१०॥ इति श्रीपमानन्दप्रणीतं चैराग्यशतकम् । ८ का० स० गु०