पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । स्फूर्जल्लोभकरालवत्रकुहरो हुंकारगुञ्जारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । खैरं यत्र स बम्भ्रमीति सततं मोहायः केसरी तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥९॥ एकः स वैवखत एव देवः शौटीर्यशाली च महाव्रती च । पशौच गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ।। ९१ ।। एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वक्रविलोकितानि । उन्मीलति स ललितायधुना स एवं मन्मानसे शुचिविवेककलाविलासः ॥ ९२ ।। प्रत्यक्षो नरकः स एष वसुधापीठे परायत्तते- त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी()वशवर्तिनोऽपिविषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्करचर्विताङ्गलतिकः किं नाम नैवोज्झति ।। ९३ ॥ ता एवैताः कुवलयदृशः सैष कालो वसन्त- स्खा एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किंतूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानी हसति हृदयं यौवनोन्मादलीलाः ॥ ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं खकीयगुणदोषविज्ञानम् ॥ ९५ ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गसाम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्लामयम् । यद्योम्यं न तपोविधानदहनज्वालावलीतेजसां सिद्धिं याति कथं नृपान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ ९६ । हे मोहाहत जीव हुं शृणु वचः श्रद्धाति चेत्कथ्यता प्राधे किंचन सत्फलं भवमहाटव्यां त्वया मान्यता ।