पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं शौटीयं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ।। रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्त्रदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वाशामुत्सवः ।। ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते विग्योषितां चञ्चलचित्रवृत्तिम् ॥ ८४ ।। याच्यायै वचनक्रम रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थान बबन्ध क्षणं तत्किं हन्त परिश्रमोऽपि निकटीभूय(१) न संपन्नवान् ॥ ८५ ॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाजनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शकतेऽपि ।। ८६ ।। बन्धो क्रोध विधेहि किंचिदमरं स्वस्याधिवासास्पदं आतर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वृथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नागनानां मुधा तदा विश्रमवल्गितानि ॥ ८८ ॥ विश्वाः कला परिचिता यदि तास्ततः किं तप्तं तपो यदि तदुतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि- मन्तर्विवेककलिका यदि नोल्ललास, ॥ ८९.३॥ ...