पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। आताम्रायतलोचनातुरमिदं न्यकारवानिन्दितं बभ्रकुटिभालभीममधरमस्पन्बदुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविहलीकृतहृदो ही कामिनां मूढता ।। ७५ ।। कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमहः परं यसाच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ॥ क कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वा- न्दाहात्मतामकलयशलभः प्रदीये । जाननहं पुनरमून्करिकर्णलोला- भोगांस्त्यजामिन तथापि क एष मोहः ।। ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योघिदेव परा जरा ॥ ७९ ॥ धिक्कंदर्प जगत्रयीविजयिनो दोःखामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र ...."भवान्सर्पजराराक्षसी- वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिकमम् ॥ ८॥ तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यकल्लीरुह- स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशवः पल्लवाः । यसो मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ।। ८१ ॥ रेरे मोहहताश तावकमिदं धिक्यौरुषौज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् ।