पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्राहेऽपि ताराः स्फुटं हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ ६७ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ ६८ ॥ मायया राजते वेश्या शीलेन कुलबालिका । न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९॥ यावयाधिविवाधया विधुरतामङ्गं न संसेवते यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना ध्येयं ध्यानविचक्षणः स्फुटतरं हृत्पद्मसमोदरे ।। ७० ।। अज्ञानावृतचेतसो मम महाव्यामूढतां कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ।। ७१ ॥ तन्नो नागपतेर्मुजंगवनिताभोगोपचारैः परै- स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रघरस्य देववनिताक्रीडारसैनिभेरै- यत्सौख्यं बत वीतकाममनसा तत्त्वार्थतो योगिनाम् ॥ ७२ ॥ मध्यक्षामतया योषितपःक्षामतथा यतिः। मुखक्षामतया चाश्वो राजते न तु भूषणैः ।। ७३ ।। तन्व्या श्रोत्ररसा[यनेन वचसा] सप्रेम संभाषितः सर्पकोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान तिलाममात्रमपि यः संक्षोभितुं शक्यते रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ ७४ ॥