पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मां बाल्यादपि निर्निमित्तनिबिडमोद्भूतसल्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा पालेयोत्करवद्धबन्त (द्धत्तं त) मनया द्रक्षाम्यहं त्वां कथम् ॥६॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु- युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ।। औचित्यांशुकशालिनी हृदय हे शीलारागोज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराकिताम् । सबोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमशान्तिप्रियां तद्भज ॥ ६२ ।। यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिने नैवोन्नति- न व्याधिन धनं तथैव न वधो ध्यानं न नाध्येषणा। नो दासं न विलासरम्यवदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा- न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृया तथा । ॥ ६४॥ "हृदये। मन्त्ररहस्योद्वारी मंत्रीव स दूरतस्त्याज्यः ।। ६५ ।। धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके कार्पण्येन विडम्बितौ सति धने थैरर्थकामावपि । अत्यन्त चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्यूनः ।। ६६ ॥