पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो। किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया वामाक्षीमभिधावमानमनिशं चेतो न चेदक्षितम् ॥ ५३ ॥ रोद्धं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते भेत्तुं वनमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः ॥५४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधि कुटिलतालङ्कां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैदोहोरैर्वरैः केयूरैमणिरत्नचारुशिखरैर्दारैरुदौरैश्च किम् । प्राणान्पद्मदलामवारितरलाञ्ज्ञात्वा जवाजीव रे दानं देहि विधेहि शीलतपसी निर्वेदमाखादय ॥ ५६ ॥ ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्यं वपु- स्तारुण्यं तरलेक्षणाक्षितरलं विद्युचलं दोर्बलम् । रेरे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ श्रीखण्डपादपेनेव कृतं स्वं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ।। ५८॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा खाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ५९ ॥