पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मिथ्या त्वन्निवयं (1) पदाहतिवशाद्भो गाहसे त्वं यत- श्वेतस्तद्तशङ्क साकवृषवन्निन्धं परिनाम्यसि ॥ ४६॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपा किमपि प्रमादक्शतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविषमे संसारचके भ्रमः ।। ४७ ।। कोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीवोत्कटकूटचित्तक्शग खान्त त्वया हारितं हस्तातं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ १८ ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणयामेण निःशक्तिना मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ १९ ॥ यसै त्वं लघु लङ्घसे जलनिधि दुष्टाटवीं गाहसे मित्र वञ्चयसे विलुम्पसि निजं वाक्यक्रम मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्तता (१) मे तदा ॥ ५० ॥ अज्ञानाद्रितटे वचित्कचिदपि प्रद्युम्नगर्तान्तरे मायागुल्मतले क्वचित्कचिदहो निन्दानदीसंकटे । मोहव्याघ्रमयातुरं हरिणवत्संसारघोराटवी- मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारूरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ।।