पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । ७७ दुष्मापं मकराकरे करतलाद्नं निमनं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्त मया निर्मलम् । प्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना सयापारवियोजितेन परमं निर्वाणमप्याप्यते। प्रीतिस्तेन हहा सखे प्रियतमाक्वेन्दुरागोद्भवा क्रीता खल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥ ४१॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यसनं कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भन्यो द्रव्यसमजेने किल महारम्भोधमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं लोभोन्मूलनहेतवे स्खविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं दुष्पापो नृभवो मया हतधिया हा हारितो हारितः ॥ १३ ॥ सौख्यं मित्रकलत्रपुत्रविभवमंशादिभिर्भहुरं कासवासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । प्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः कष्टं किं करवाण्यहं तदपि यचित्तस्य पापे रतिः ॥४४॥ संसारे गहनेऽत्र चित्रगतिषु प्रान्त्यानया सर्वथा रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगझ्या धुरं पृष्ठेनोपचितेन नैव बहसे प्रोच्चैरहिंसाभरम् ।