पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ।। ३२ ।। बालो यौवनसंपदा परिगतः क्षिप्रंक्षितौ लक्ष्यते वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते। सोऽपि कापि गतः कृतान्तवशतो न ज्ञायते सर्वथा पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं आसाभाववशान्न संचरति यद्रकोऽपि तेषां पुनः (१)। येऽभूवन्विमुखाः खकुक्षिभरणे तेषामकरसादहो यञ्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो । मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सद्ध्यानतो लीलया नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६॥ बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन खदोलीलया । श्रीरामेण च येन राक्षसपतित्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः कथा ॥ ३७॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोक निगद्यते । रामदेवादयो धीराः सर्वे काप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै- रत्युपश्रममुद्राहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैायामयैधोरख- न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥