पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तः सखे रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्धिपो नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये सर्वखं वितरन्ति ये तृणमिव क्षुद्वैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो द्वित्रास्ते तु नरा मनः समरस येषां सुहृद्वैरिणोः ॥ २६ ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ २७ ॥ नास्त्यसद्भाषितं यस्य नास्ति भङ्गो रणाङ्गनात् । नास्तीति याचके नास्ति तेन रनवती क्षितिः ॥ २८ ।। आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया लक्ष्मीः कस्य न वल्लमा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं सर्वाशाद्रुमकर्तनैकपरशुर्मूल्युन चेत्स्याजनोः ॥ २९ ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः वर्णस्वैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३० ॥ कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ ३१॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः ।