पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ सम्यक्परिहृता येन कामिनी गजगामिनी। किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं अश्यति ज्ञानं संकुचति सारज्वरवशात्पश्यामि यावत्प्रियाम् । यावतु स्मृतिमेति नारकगतेः पाकक्रमो मीषण- स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषौघायते ॥ १९ ॥ कारुण्येन हता वघव्यसनिता सत्येन दुर्वाच्यता संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहगहिलता यैर्योवनेऽपि स्फुटं पृथ्वीय सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥२०।। यत्रानोऽपि (1) विचित्रमञ्जरिभरज्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषनिषण्णमनसां येषां मनः सर्वथा तसिन्मन्मथबाघया न मथितं धन्यास्त एव ध्रुवम् ॥ २१॥ साध्यावोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ २२ ॥ किं लोलाक्षि कटाक्षलम्पटतथा किं स्तम्भजृम्भादिभिः किं प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोल्लसच्चाटुभिः । आत्मानं प्रतिबाधसे त्वमधुना व्यर्थ मदर्थ यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ २३ ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृत्ततहः । श्रद्धाजलेन सिक्तो मुक्तिफलं तस्य स ददाति ॥ २४॥