पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तो द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराञ्चिततनोविच्छेदने विभ्यतां मानस्यावसरे चक्तिविधुरं दीनं मुखं बिनताम् । विश्लेषस्सरवह्निनानुसमयं दन्दह्यमानात्मनां प्रातः सर्वदशासु दुःखगहनं धिकामिनां जीवितम् ॥ ११ ॥ मध्ये खां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां कौटिल्य चिकुरेषु रागमधरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामणोनिरीक्ष्य स्फुटं वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि जड़ा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ अन्यायार्जितवित्तवत्वचिदपि भ्रष्टं समस्तै रदै- तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि खैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उहणन्ति प्रपञ्चेन योषितो गद्दां गिरम् । तामामनन्ति प्रेमोक्ति हेलचेतसः ॥ १५॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं सिद्धान्तार्थमहौषधेर्निरुपमश्चू! न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्सरोत्थो ज्वरः शान्ति याति न तात्त्विकी हृदय हे शेषैरलं भेषजैः ।। १६ ।। शृक्षारद्रुमनीरदे प्रसमरक्रीडारसस्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवाचुक्ताफलोदन्वति । ७ का० स००