पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । संतप्तिं सप्तसप्तेरव विषमगतेरागसोऽतीव गुर्वी- मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ यद्यप्यन्तर्न धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोर्व्यां बहिरपि निरतैः पूर्वपृक्तेरितीव । लग्नो रागो गरीयस्यधरवरमणौ यत्र चित्रातिचण्ड- त्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभां सुवृत्तः । स्थैर्यं लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्त- र्यत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः ॥ १८ ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्या- दर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्यर्णोपसर्पि द्वितयमुपवद्राघिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मलीं हेलया वः ॥ १९ ॥ राजीव त्वं निजर्द्ध्या जयसि बहुरजः सत्कथं कथ्यतां मा- मृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटप्रोच्छलद्राणतो य- द्वक्तीय व्यक्तमक्तान्स्नपयतु रजसा वस्तदर्हन्मुखाब्जम् ॥ २० ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्तिं व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः । स व्रीडत्वादिवेन्दुर्मृडविकटजटाजूटरौद्राटवीं वो यच्छत्वच्छिन्नवाञ्छं सुषममितमृतेराननं तन्मनोहृत् ॥ २१ ॥ लावण्यार्ण:प्रपूर्णं चलहगनिमिषं राजहंसोपजीव्यं भ्राम्यद्भ्रूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । १. पूर्वसंवन्धात, २. अरुणत्वं मानसो विकारश्न. ३. निकटस्था अनुरका वर्ण ब्राह्मणादयो यस्य. ४. शब्दता. ५. रजसा पापेनाक्तान् लिप्तान्,' ६. शोभनम् . ७. गतमरणस्य जिनस्य.