पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ ५२॥ अथ मायाप्रकमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्या कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्थशोराजधानीं व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ।। ५४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् ।॥५५॥ मुग्धप्रतारणपरायणमुब्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥ अथ लोभप्रक्रमः । यहुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमतनुक्लेशां कृषिं कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ ५७ ॥ मोलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधाग्रेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेर्विवेकशशिनः स्वर्भानुरापन्नदी- सिन्धुः कीर्तिलताकलापकलमो लोभः पराभूयताम् ॥ ५८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभसनि विसर्पदकीर्तिधूमे ।