पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूक्तिमुक्तावली। फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय- त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्मं दहति द्रुमं दव इवोन्मश्नाति नीतिं लतां दन्तीवेन्दुकलां विधुंतुद इब क्लिश्नाति कीर्तिं नृणाम् । स्वार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८ ॥ अथ मानप्रक्रमः। यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिन्शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूभ्यया क्रोधदावं तं भानार्द्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडीं विघटय- न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् । भ्रमन्नुर्व्यां स्वैरं विनयवनवीथीं विदलय- ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्तिं कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्गं नृणाम् ॥ ५१ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थं संजीवनं विनयजीवितमङ्गभाजाम् ।