पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूक्तिमुक्तावली। पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा- वित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्यर्थमुत्तिष्ठते यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् ।।२२।। लक्ष्मीस्तं स्वयमभ्युपैति रमसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः सङ्घं गुणसङ्घकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव- च्चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ २४ ॥ अथाहिंसाप्रक्रमः। क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवो- वन्वन्नौर्व्यसनाग्निमेवपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसःप्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ २५ ॥ यदि ग्रावा तोये तरति तरणिर्यद्युदयते प्रतीच्यां सप्तार्चियदि भजति शैत्यं कथमपि । यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ २६ ॥ स कमलवनमग्नेर्वासरं भास्वदस्ता- दमृतमुरगवत्रात्साधुचादं विवादात् । 1. 'सुखं ख.. २, “निःश्रेणी त्रिदिवौकसां' क.