पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रुगपगममजीर्णाजीवितं कालकूटा- दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ २८ ॥ अथासत्यप्रकमः। विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवन कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९ ।। यशो यस्माद्भस्मीभवति वनवह्वेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्वाच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ॥ असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१॥ तस्याग्निर्जलमर्णवः स्थलमारर्मित्रं सुराः किंकराः कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिर्मुगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सुगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ ३२ ।। अथ तेयप्रक्रमः। तमभिलषति सिद्धिस्तं वृणीते समृद्धि- स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः। स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपतं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १.मार्गोपयुक्तं भोजनम्, शम्बलमिति यावत्. २. आलपे छायेव.. ३. दुष्टगजः,