पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कुर्वन्तु भव्यनिवहस्य नभोगतानां मङ्क्षु श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ संस्तूयसे शुभवता मुनिना यकेन नीतो जिनाशु भवता मुनिनायकेन नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मीं करोतु मम निर्ममतापसानाम् ॥ २१ ॥ येनोद्धशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान- स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिंनरदृश्यमानः प्रीतिं करिष्यति न किं नरदृश्यमानः । भानुप्रभापविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोऽपमायाम् ॥ २३ ॥ श्रीवर्धमानवचसा परमाकतेण रत्नत्रयोत्तमनिधेः परमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥ १. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. २. यकेन येन. ३. कथितप्रमाणाम् ४. निःशेषेण मतामपस्यन्तीति निर्ममताप- सास्तेषाम्. ५, उद्धशब्दः प्रशंसावचनः प्रशस्तशिखरे गिरिनारि पर्वते..६.इना कामे नापि. ७. मनुष्यमानदृष्टौ.' ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. ९. श्रीम- हावीरखामिवाक्येन. १०. परमेणाकरेण खनिरूपेण. ११. परलक्ष्मीकरण. १२. जन- तातो बहिर्भूताः अलौकिका इत्यर्थः.