पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ काव्यमाला। चन्द्रप्रभ प्रभजति स रमा विना शं दोर्दण्डमण्डितरतिस्परमाविनाशम् ॥ ८ ॥ श्रीपुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तनुना सुराणाम् ॥ ९॥ श्रीशीतलाधिप तवाधिसभं जनानां भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति- मुक्तात्मनां जिन यथा सुरसार भुक्तिः ॥ १० ॥ पादद्वये मुदितमानसमानतानां श्रेयान्मुने विगतमान समानतानाम् । शोभां करोति तव कांचन मा सुराणां देवाधिदेव मणिकाश्चनभासुराणाम् ॥ ११ ॥ घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तारणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चित्तभवसागरतारणानि ॥ १२ ॥ भव्यप्रजाकुमुदिनीविधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्यं स्वरूपमखिलं तव ये विदन्ति राज्यं भजन्ति विमलेश्वर तेऽविदन्ति ॥ १३ ॥ १. द्वितीयाबहुवचनम्. २. सुखम्, ३. दोर्दण्डमण्डितरसेः स्मरस्य माया लक्ष्म्याश्च बिनाशो यस्मिन्सुखे, मोक्षमुखमिति भावः. ४. सूक्ष्मेण. ५. सुशब्दां रतिम्. ६. मु- रसा-अरं-उक्तिः. ७. हे सुरश्रेष्ठ. ८. मानत्वेन सहवर्तमानानाम्. १. अरणानि युद्धनि- षेधकानि. १०.चित्तभवमाया कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. ११. कल्मषाणाम् १२. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. हस्तियुकं राज्यमित्यर्थः. १२