पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सिद्धिप्रियस्तोत्रम् । संवृद्धधर्मसुधिया कविराजमानः (१) क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥ श्रुत्वा वचांसि तव संभव कोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि स्वार्थस्य संमृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक- शिछन्धात्स मिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेऽधजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ बरानतेन कामाश्रिता सुमतिनाथ वरा न तेन ॥ ५ ॥ मोहप्रमादमदकोपरतापनाशः पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ ६॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्ति मनः समधियावनिनाय कोपि । १. संभवेति जिननाम. २. हे देव, प्रमुक्तसुमनोभवन, अश(स)नानि प्रेरकाणि स्वार्थस्य, ३. हे वर, आनतेन, ४. लक्ष्मीः. ५. विनयस्येनं प्रभुम् , अहीनभोगा. ६. देवलोकव्योमयानश्रिया. ७. कोपयुक्तं मनः शान्तिमबनिनाय.