पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनचतुर्विंशतिका। no जयति सुरनरेन्द्रश्रीसुधानिर्झरिण्याः कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहाग्रप्रवाल- प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ १७ ॥ विनमदगरकान्ताकुन्तलाक्रान्तकान्ति- स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजबातपूज्यक्रमाब्जो जयति विजितकर्मारातिजालो जिनेन्द्रः ॥१८॥ मुप्तोत्थितेन सुमुखेन सुमङ्गलाय द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्रं त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ १९ ॥ त्वं धर्मोदयतापसाश्रमशकस्त्वं काव्यबन्धक्रम- क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मौलिभिः ॥ २० ॥ शिवसुखमजरश्रीसंगमं चाभिलप्य स्वमभि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त- स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ २१॥ देवेन्द्रास्तव मज्जनानि विदधुर्दैवाङ्गना मङ्गला- न्यापेठुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवां सुराश्चक्रिरे तत्किं देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ २२ ॥ देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चुकै- र्देवेन्द्रर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । १. हे जगत्पालक.