पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषापहारस्तोत्रम् । दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः । संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६॥ उपैति भक्त्या सुमुखः सुखानि त्वयि सभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८॥ तवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैपीर्विरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९ ॥ स्मरः सुदग्धो भवतैव तस्मिन्नुद्भूलितात्मा यदि नाम शंभुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥ १० ॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीर्त्यैव न ते गुणित्वम् । खतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ।। ११ ॥ कर्मस्थितिं जन्तुरनेकभूमिं नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥ १२ ॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमैत्वदीयाः ॥ १३ ॥ विषापहारं मणिमोषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राभ्यन्त्यहो न त्वमिति सरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ १. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयनशक्तः सन्सव्याज दिवस गमयति, केवलं कालक्षेपं करोतीत्यर्थः. अन्यत्राशा दिशः. २. यत्र स मेरुवर्तते तत्रैव तुझा प्रकृतिनान्यत्र. ३. तत्र मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्तिः. ५. वाञ्छितवानसि. ६. पापरहितः स प्रमादिदेवसमूहः, ७. सरोवरादेः स्तोकापवादेन खल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते, स तु खभावेनैव महान्, ८. जी. वक्रमगोरन्योन्यस्य नेतृभावं भवाब्वौ लमाख्यः कथितवानसि, प्रथा समुन्द्रे नौका नाविक नयति नाविकच नौकां तद्वत्. ६, स्वत्तः पराञ्चुलाः