पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ काव्यमाला। त्रिकालतत्त्वं त्वमवैस्त्रिलोकीखामीति संख्यानियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यस्तेऽन्येऽपि चेव्द्याप्स्यदमूनपीदम् ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकार । तस्यैव हेतुः स्वसुखस्य भानोरुद्विम्रतश्छत्रमिवादरेण ॥ १७ ॥ क्वोपेक्षकस्त्वं व सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः । क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥ तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न घनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः ॥ १९ ॥ त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥ श्रिया परं पश्यति साधु निःखः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ २१ ॥ स्ववृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः ॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ।। २३ ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ २४ मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण । सर्वं मया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ २५ ॥ स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विधातः । संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥२६॥ अजानतस्त्वां नमतः फलं यत्तजानतोऽन्यं न तु देवतेति । हरिन्मणि काचघिया दधानस्तं तस्य बुद्ध्या वहतो न रिक्तः ॥ २७ ॥ १. अवजानन्ति.२. पाषाणोद्भवम् ३. नरदेवतिर्यगादीनाम्. ४. काचम् ५. हरिन्मणेः