काव्यमाला। भक्तिप्रह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते स्वात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥ वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥ २६ ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥
श्रीधनंजयप्रणीतं
विषापहारस्तोत्रम् ।
स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः ।
प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १॥
परैरचिन्त्य युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः ।
स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥
तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धन् ।
स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरूपयामि ॥३॥
त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः ।
वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥
व्यापीडितं बालमिवात्मदोषैरुल्लापतां लोकमवापिपस्त्वम् ।
हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि वालवैद्यः ॥ ५ ॥
१. सर्वेऽपि शान्दिकास्तार्किकश्रेष्ठाः कवयः सज्जनाश्च वादिराजान्न्यूना इत्यात्मप्र-
शंसां कविः कृतवानिति तात्पर्यम्. २. द्विसंधानकाव्यकर्ता कश्चिदन्योऽयमेव धनंजय-
इति न निश्चयः. स्तोत्रस्यास्य द्वित्राणि मूलपुस्तकानि कर्तृनामरहिता टीका चासा-
दितास्माभिः, ३. एक एवान्यपुरुषैर्मनसाप्यस्मरणीयं प्राणिप्राणधारणोपायप्रदर्शनवरूप
युगभार वहन्धारयन्निति टीका. ४. ला स्तोतुमहं शक्क इसभिमानम्. ५. स्वल्पाद्वो-
वात. ६. स्वल्पेनापि गवाक्षेण बृहदपि पर्वतादि यथा विलोक्यते तद्वदह खल्पेनापि
बोधेनाधिकार्थ निरूपयामीति तात्पर्यम्. ७. प्रापितवानमि