पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ स्थाने गभीरहृदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गभाजो भव्या ब्रजन्ति तरसायजरामरत्वम् ।। २१ ।। स्वामिन्सुदूरमवनन्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुङ्गवाय ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्वलहेमरत्न- सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै- श्वामीकरादिशिरसीव नवाम्बुबाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव । सांनिध्यतोऽपि यदि वा तव वीतराग नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ भो भोः प्रमादमवधूय भजध्वमेन- मागत्य निर्वृतिपुरी प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ उद्दयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः। मुक्ताकलापकलितोरुसितातपत्र- व्याजात्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥