पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कल्याणमन्दिरस्तोत्रम् । १५ स्वेन प्रपूरितजगत्रयपिण्डितेन कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालनयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन नमत्रिदशाधिपाना- मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलमान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा- दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्जदूर्जितघनौषमदभ्रभीम- भ्रश्यचडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दध्रे तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२ ॥ १. प्राकारत्रयेण, २. पार्थिवश्चासौ निपो घटः, 'पार्थिवनिभस्य', 'पार्थिवभवस्य' इति च पाठः ३. घटस्तु वह्निकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. ४. तरवारि खङ्गः, "विमलतरवारिधारावासितराजहंसमण्डलः' इति वासवदत्ताश्लेषः,